Six vṛttas rendered by this system — including verses from the shipped deployments.
vasantatilakā Mahābhārata Tātparya Nirṇaya · 1.1
नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय ।
ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते
śārdūlavikrīḍita Śrīmad Bhāgavatam · 1.1.2
जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यं सूरयः। तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि
anuṣṭubh Śrīmad Bhāgavatam · 1.1.5
नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः। सत्रं स्वर्गाय लोकाय सहस्रसममासत
vaṃśastha Śrīmad Bhāgavatam · 1.3.5
पश्यन्त्यदो रूपमदभ्रचक्षुषः सहस्रपादोरुभुजाननाद्भुतम्। सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत्
drutavilambita Śrīmad Bhāgavatam · 1.1.4
निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्। पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः
mālinī Narasiṃha stuti · retroflex tongue-twister
हठलुठ दल घिष्टोत्कण्ठदष्टोष्ठ विद्युत् सटशठ कठिनोरः पीठभित्सुष्ठुनिष्ठाम् ।
पठतिनुतव कण्ठाधिष्ठ घोरान्त्रमाला दह दह नरसिंहासह्यवीर्याहितं मे ॥